कारवी

सुधाव्याख्या

के आरौति । पचाद्यच् । यत्तु मुकुट आह – कारोरियम् कारवी इति । तन्न । ‘वृद्धाच्छः' (४.२.११४) इत्यस्याणपवादत्वात् । 'कारवी मधुरादीप्यत्वक्पत्रीकृष्णजीरके' इति मेदिनी ॥