गृञ्जनम्

सुधाव्याख्या

गृञ्जते = भक्ष्यत्वेन कथ्यते रोगेषु । ‘गृजि शब्दे' (भ्वा० प० से०) । कर्मणि ल्युट् । ‘गृञ्जनम् । विषदिग्धपशोर्मांसे क्लीबं, पुंसि रसोनके' (इति मेदिनी) । ‘लशुनं गृञ्जनं चैव पलाण्डुकवकानि च । वृत्ताकारालिकालाबुजातीया जातिदूषितम्” इति । श्वेतकन्दः पलाण्डुविशेषो गृञ्जनम् । लशुनं दीर्घपत्रश्च पिच्छगन्धो महौषधम् । फरणश्च पलाण्डुश्च लतार्कश्चापराजिता । गृञ्जनं यवनेष्टश्च पलाण्डोर्दश जातयः इति सुश्रुतेनोक्तत्वात् । ‘गन्धाकृतिरसैस्तुल्यो गृञ्जनस्तु पलाण्डुना । दीर्घनालाग्रपत्रत्वात् भिद्यतेऽसौ पलाण्डुतः ॥