लतार्कः

सुधाव्याख्या

लतेति । लतासु अर्च्यते, अर्च्यते विरुद्धलक्षणया निन्द्यते वा । ‘अर्क स्तवने' (भ्वा० प० से०) । ‘अर्च पूजायाम्' (भ्वा० प० से०) वा । घञ् (३.३.१९) ॥