औषधम्

सुधाव्याख्या

ओषेति । जातिमात्रविवक्षायाम् ‘ओषधी' शब्दप्रयोगः । अजेति । द्रव्यमात्रविवक्षायां तु ‘औषध' शब्दप्रयोगः । ‘ओषधेरजातौ' (५.४.३७) इत्यण् । ‘सर्वम्' इत्यनेन 'घृततैलादिकमप्यौषधशब्दवाच्यम्' – इत्युक्तम् ॥