प्रपौण्डरीकम्

सुधाव्याख्या

प्रेति । पुण्डरीकेण सदृशम् । ‘शेषे (४.२.९२) इत्यण् । प्रकृष्टं पौण्डरीकम् । यद्वा स्वार्थेऽण् (५.४.३८) । ‘साधुपुष्पं स्थलपद्मं दृष्टिकृत् पुण्डरीककम्' इति रभसः ॥


प्रक्रिया

प्र + पुण्डरीक + टा + अण् - शेषे 4.2.92
प्रपुण्डरीक + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
प्रपुण्डरीक + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्रपुण्डरीक् + अ - यस्येति च 6.4.148
पौण्डरीक - तद्धितेष्वचामादेः 7.2.117
प्रपौण्डरीक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रपौण्डरीक + अम् - अतोऽम् 7.1.24
प्रपौण्डरीकम् - अमि पूर्वः 6.1.107