ताली

सुधाव्याख्या

तालयति । “तल प्रतिष्ठायाम्' (चु० प० से०) । ण्यन्तः । अच् (३.१.१३४) । ‘तालः करतलेऽङ्गुष्ठमध्यमाभ्यां च सम्मिते । गीतकालक्रियामाने करस्फाले द्रुमान्तरे । वाद्यभाण्डे च कांस्यस्य त्सरौ ताली झटौषधौ । क्लीबं तु हरिताले स्यात्' (इति मेदिनी) ॥


प्रक्रिया

धातुः - तलँ प्रतिष्ठायाम्


तल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तल् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
तल् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
ताल् + इ + अच् - अत उपधायाः 7.2.116, नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
ताल् + अच् - णेरनिटि 6.4.51
ताल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ताल + ङीष् - कृदिकारादक्तिनः (4.1.45) । गणसूत्रम् ।
ताल + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
ताल् + ई - यस्येति च 6.4.148
ताली + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ताली + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ताली - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68