अज्झटा

सुधाव्याख्या

अदव्ययमाश्चये । अत आश्चर्यश्च झट: संघातोऽस्याम् । अत्ति । क्विप् (३.२.१७८) झटति । अच् (३.१.१३४) । टाप् (४.१.४) । अच्चासौ झटा च ॥


प्रक्रिया

धातुः - अदँ भक्षणे , झटँ सङ्घाते


अदँ भक्षणे
अद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अद् + क्विप् - अन्येभ्योऽपि दृश्यते 3.2.178
अद् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, वेरपृक्तस्य 6.1.67, तस्य लोपः 1.3.9
झटँ सङ्घाते
झट् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
झट् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
झट ­- हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अद् + सु + झट + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
अद् + झट - सुपो धातुप्रातिपदिकयोः 2.4.71
अज्झट - स्तोः श्चुना श्चुः 8.4.40
अज्झट + टाप् - अजाद्यतष्टाप्‌ 4.1.4
अज्झट + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अज्झटा - अकः सवर्णे दीर्घः 6.1.101
अज्झटा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अज्झटा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अज्झटा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68