व्याप्यम्

सुधाव्याख्या

व्याप्यते । ‘आप्लृ व्याप्तौ' (स्वा० प० अ०) । 'ऋहलोर्ण्यत्' (३.१.१२४) ॥ वाप्यां भवम् । ‘वाप्यम्' इति क्वचित्पाठः । उप्यते । ‘डुवप् बीजसंताने' (भ्वा० प० अ०) । ण्यत् (३.१.१२४) वा ॥ ‘आप्यम्' इति च ॥