धातृपुष्पिका

सुधाव्याख्या

धातृ पुष्पमस्याः । शैषिक: कप् (५.४.१५४) ॥


प्रक्रिया

धातृ + सु + पुष्प + सु - अनेकमन्यपदार्थे 2.2.24
धातृपुष्प - सुपो धातुप्रातिपदिकयोः 2.4.71
धातृपुष्प + सु + कप् - शेषाद्विभाषा 5.4.154
धातृपुष्प + कप् - सुपो धातुप्रातिपदिकयोः 2.4.71
धातृपुष्प + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
धातृपुष्पक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
धातृपुष्पक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
धातृपुष्पका - अकः सवर्णे दीर्घः 6.1.101
धातृपुष्पिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
धातृपुष्पिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
धातृपुष्पिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धातृपुष्पिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68