सल्लकी

सुधाव्याख्या

सलति । ‘षल गतौ' (भ्वा० प० से०) । क्वुन् । (उ० २.३२) । पृषोदरादिः (६.३.१०९) । गौरादिः (४.१.४१) । सत्कृत्य लक्यते वा । ‘लक आस्वादने' । क्वुन् (उ० २.३२) ॥ ‘सल्लकी सिल्लकी ह्लादा' इति रुद्रः ॥ ‘श्वाविद्द्रुभेदौ शल्लक्यौ' इति तालव्यादौ रभसः । तत्र ‘शल चलने’ (भ्वा० प० से०) धातुः ॥