वालम्

सुधाव्याख्या

वेति । वालयति । ‘वल संवरणे' (भ्वा० आ० से०) । ण्यन्तः । पचाद्यच् (३.१.१३४) । ‘बालो ना कुन्तलेऽश्वस्य करिणश्चापि बालधौ । वाच्यलिङ्गोऽर्भके मूर्खे ह्रीबेरे पुंनपुंसकम् । अलंकारान्तरे मेध्ये बाली बाला त्रुटौ स्त्रियाम्' (इति स्पर्शादौ मेदिनी) ॥