शृङ्गी

सुधाव्याख्या

शृङ्गीति । शृणाति गदम् । ‘शॄ हिंसायाम्' (क्रया० प० से०) । ‘शृणातेर्ह्रस्वश्च ' (उ० १.१२६) इति गन् नुम् च । गौरादित्वात् (४.१.४१) ङीष् । ‘ऋषभेऽतिविषायां च शृङ्गी । मद्रवल्लभा' इति रुद्राजयौ ॥