तुण्डिकेरी

सुधाव्याख्या

तुण्डीति । तुण्डिकाञ्शरीराणि ईरयति । ‘ईर गतिप्रेरणयो: (अ० आ० से०) । 'कर्मण्यण्' (३.२.१) ॥


प्रक्रिया

धातुः - ईरँ गतौ कम्पने च


ईर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुण्डिक + शस् + ईर + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
तुण्डिक + ईर् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
तुण्डिक + ईर् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
तुण्डिकेर - आद्गुणः 6.1.87
तुण्डिकेर + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
तुण्डिकेर + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
तुण्डिकेर् + ई - यस्येति च 6.4.148
तुण्डिकेरी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तुण्डिकेरी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुण्डिकेरी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68