सुगन्धा

सुधाव्याख्या

शोभनो गन्धः सुगन्धः । ‘कुगति (२.२.१८) इति समासः । सुगन्धोऽस्त्यस्याः । मुकुटस्तु - शोभनो गन्धोऽस्याम् । अर्शआद्यच् (५.२.१२७) इत्याह । तन्न । ‘गन्धस्येत्-' (५.४.१३५) इतीत्प्रसङ्गात् । बहुव्रीहिणोक्तार्थत्वादचोऽप्रसङ्गात् । मत्वर्थे बहुव्रीहिविधानात् । स्वामी तु रास्नासुगन्धयोः स्थाने ‘नागसुगन्धा' इति पठित्वा ‘सर्पसुगन्धा' इति व्याख्यत् ॥