दुष्प्रधर्षणी

सुधाव्याख्या

दुःखेन प्रधृष्यते । ‘ञिधृषा प्रागल्भ्ये' (स्वा० प० से०) । कर्मणि ल्युट् (३.३.११३) ॥ आभीक्ष्ण्ये णिनौ (३.२.८१) तु ‘दुष्प्रधर्षिणी' ॥


प्रक्रिया

धातुः - ञिधृषाँ प्रागल्भ्ये


धृष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दुस् + प्र + धृष् + ल्युट् - कृत्यल्युटो बहुलम् 3.3.113, उपपदमतिङ् 2.2.19
दुस् + प्र + धृष् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
दुस् + प्र + धृष् + अन - युवोरनाकौ 7.1.1
दुष्प्र + धृष् + अन - आदेशप्रत्यययोः 8.3.59
दुष्प्र + धर्ष् + अन - पुगन्तलघूपधस्य च 7.3.86
दुष्प्रधर्षण - रषाभ्यां नो णः समानपदे 8.4.1
दुष्प्रधर्षण + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
दुष्प्रधर्षण + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
दुष्प्रधर्षण् + ई - यस्येति च 6.4.148
दुष्प्रधर्षणी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दुष्प्रधर्षणी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दुष्प्रधर्षणी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68