सिंही

सुधाव्याख्या

हिनस्ति । ‘हिसि हिंसायाम्' (रु० प० से०) । पचाद्यच् । पृषोदरादिः (६.३.१०९) । ‘सिंहस्तु राशिभेदे मृगाधिपे । श्रेष्ठे स्यादुत्तरस्थश्च सिंही स्वर्भानुमातरि । वासाबृहत्योः क्षुद्रायाम्' इति हैमः ॥