वार्ताकी

सुधाव्याख्या

वार्तेति । वार्तमारोग्यमाकयति । ‘अक कुटिलायां गतौ' (भ्वा० प० से०) ण्यन्तः । ‘कर्मण्यण्' (३.२.१) । फल्गु अकं यस्याः । ‘जाते:' (४.१.६३) इति ङीष् । 'वातिङ्गणस्तु वार्ताङ्गो वार्ताकः शाकबिल्वकः' इति रभसात् पुंस्यपि ॥ ‘वार्ता वातिङ्गणे वृत्तौ इति विश्वाद् ‘वार्ता अपि ॥ ‘वार्ताकरेषा गुणसप्तयुक्ता' इति वैद्यकात् (‘वातिङ्गणश्च वार्ताकुः' इति त्रिकाण्डशेषाच्च) । वार्ताकु:' अपि ॥


प्रक्रिया

धातुः - अकँ कुटिलायां गतौ


अक् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अक् + णिच् - हेतुमति च 3.1.26
अक् + इ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
आक् + इ - अत उपधायाः 7.2.116
वार्ता + अम् + आक् + इ + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
वार्ता + आक् + इ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
वार्ता + आक् + अण् - णेरनिटि 6.4.51
वार्ता + आक् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वार्ताक - अकः सवर्णे दीर्घः 6.1.101
वार्ताक + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
वार्ताक + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वार्ताक् + ई - यस्येति च 6.4.148
वार्ताकी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वार्ताकी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वार्ताकी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68