ऋक्षगन्धिका

सुधाव्याख्या

ऋक्षान् गन्धयति । ‘गन्धँ अर्दने' (चु० आ० से०) । मूलविभुजादिः (वा० ३.२.५) । कन् (५.३.७५) । यद्वा ऋक्षो गन्धोऽस्याः । ऋक्षशब्दस्तद्गन्धसदृशे गौणः ॥ अन्या असितायाः शुक्ला-कृष्णा-इति मुकुटोक्तं चिन्त्यम् ।


प्रक्रिया

धातुः - गन्धँ अर्दने


गन्ध् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ऋक्ष + शस् + गन्ध + क - कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् । 3.2.5 वार्तिकम् ।
ऋक्षगन्ध + क - सुपो धातुप्रातिपदिकयोः 2.4.71
ऋक्षगन्ध् +अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
ऋक्षगन्ध + सु + कन् - संज्ञायां कन् 5.3.75
ऋक्षगन्ध + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
ऋक्षगन्ध + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ऋक्षगन्धक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
ऋक्षगन्धक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
ऋक्षगन्धिका - अकः सवर्णे दीर्घः 6.1.101
ऋक्षगन्धका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ऋक्षगन्धका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ऋक्षगन्धका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
ऋक्षगन्धिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44