क्रोष्ट्री

सुधाव्याख्या

क्रोशति । क्रुश आह्वाने' (भ्वा० प० से०) । सितनि-' (उ० १.६९) इति तुन् । ‘स्त्रियां च' (७.१.९६) इति तृज्वत् । ‘ऋन्नेभ्यो डीप्’ (४.१.५) । मुकुटस्तु — ष्ट्रनि षित्त्वान् ङीप् – इत्याह । 'क्रोष्टी शृगालिकाकृष्णविदारीलाङ्गलीषु च' (इति मेदिनी) ॥ चत्वारि कृष्णभूकूष्माण्डस्य । मुकुटस्तुशुक्लस्य इत्याह । तन्न । ‘कृष्णविदारी' इति मेदिनीविरोधात् । एतेन-वा सिता शुक्ला – इत्यपास्तम् । ‘या असिता' इति छेत्तुमुचितत्वात् । स्वामी तु–विदार्यादित्रयं पठित्वा ‘कृष्णो भूकूष्माण्डोऽयं प्राक्षु देशेषु' इत्युक्त्वा ‘क्रोष्ट्री तु या सिता' इति पठित्वा ‘शुक्लो भूकूष्माण्डः' इत्युक्त्वा 'अन्या क्षीरबिदारी-‘इति त्रयं पपाठ । तत्र विभागत्रयमनुचितम् । उक्तमेदिनीविरोधात् ।


प्रक्रिया

धातुः - क्रुशँ आह्वाने रोदने च


क्रुश् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्रुश् + तुन् - सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन् (१.६९) । उणादिसूत्रम् ।
क्रुश् + तु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
क्रुष् + तु - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36
क्रुष् + टु - ष्टुना ष्टुः 8.4.41
क्रोष् + टु - पुगन्तलघूपधस्य च 7.3.86
क्रोष्टृ - स्त्रियां च 7.1.96
क्रोष्टृ + ङीप् - ऋन्नेभ्यो ङीप्‌ 4.1.5
क्रोष्टृ + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
क्रोष्ट्र् + ई - इको यणचि 6.1.77
क्रोष्ट्री + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
क्रोष्ट्री + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्रोष्ट्री - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68