अवरोहः

सुधाव्याख्या

शाखेति । वटादेः शाखाया अवलम्बिनी शिफा ॥ अवरोहति लम्बते । ‘रुह बीजजन्मनि प्रादुर्भावे च' (भ्वा० प० अ०) । पचाद्यच् (३.१.१३४) । ‘अवरोहोऽवतरणेऽप्यारोहे च लतोद्गमे । एकम् शाखामूलस्य ।