शाखा

सुधाव्याख्या

समे इति । शाखति । ‘शाखृ व्याप्तौ’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । यत्तु-शाख्यते वृक्षोऽनया । ‘गुरोश्च' (३.३.१०३) इत्यः इति मुकुटः । तन्न । ‘अजब्भ्याम्-' (वा० ३.३.१२६) इति वार्तिकविरोधात् । ‘शाखा द्रुमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके' इति हैमः ॥