मण्डपः

सुधाव्याख्या

अथेति । मण्डनं मण्डः । ‘मडि भूषायाम् (भ्वा० प० से०) । घञ् (३.३.१८) । मण्डं पाति । ‘पा रक्षणे (अ० प० अ०) । आतोऽनुप-’ (३.२.३) इति कः । मण्डं पिबति वा ॥


प्रक्रिया

धातुः - मडिँ भूषायाम् , पा रक्षणे


मडिँ भूषायाम्
मड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
म + नुम् + ड् - इदितो नुम् धातोः 7.1.58
मन्ड् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मंड् - नश्चापदान्तस्य झलि 8.3.24
मण्ड् - वा पदान्तस्य 8.4.59
मण्ड् + घञ् - भावे 3.3.18
मण्ड् + अ - लशक्वतद्धिते 1.3.8, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पा रक्षणे
मण्ड + अम् + पा + क - आतोऽनुपसर्गे कः 3.2.3, उपपदमतिङ् 2.2.19
मण्ड + पा + क - सुपो धातुप्रातिपदिकयोः 2.4.71
मण्ड + पा + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मण्ड + प् + अ - आतो लोप इटि च 6.4.64
मण्डप + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मण्डप + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मण्डप + रु - ससजुषो रुः 8.2.66
मण्डप + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मण्डपः - खरवसानयोर्विसर्जनीयः 8.3.15