अर्गलम्

सुधाव्याख्या

तदिति । तत् कपाटं विष्कभ्नाति । ‘स्कम्भुः सौत्रो रोधनार्थः । 'कर्मण्यण्' (३.२.३) । –मुकुटस्तु आवश्यके णिनिः (३.३.१७०) इति वदन् ’तद्विष्कम्भार्गलम्’ इति मूलपाठं मन्यते । 'वेः स्कभ्नातेर्नित्यम्' (८.३.७७) इति षत्वम् ॥ अर्ज्यते । अर्ज अर्जने (भ्वा० प० से०) । वृषादित्वात् (उ० १.१०६) कलच् । न्यङ्क्वदित्वात् (७.३.५३) कुत्वम् । 'स्यादर्गलं तु कल्लोले परिघेऽपि') स्त्रियां टाप् (४.१.४) । लघुत्वविवक्षायां ङीष् (४.१.५५)