कपाटम्

सुधाव्याख्या

कं वातं शिरो वा पाटयति । ‘पट गतौ” (भ्वा० प० से०) । ‘कर्मण्यण्' (३.२.१) ॥ ‘कवाटम्’ इत्यन्ये । तत्र कं वातं वटति । 'वट वेटने’ (भ्वा० प० से०) । स्त्रियाम् टिड्ढा -' (४.१.१५) इति ङीप् । ‘कुड् शब्दे’ (तु० आ० अ०) । 'ॠदोरप्' (३.३.५७) । कवं शब्दमटतीति वा ॥