तन्तुवायः

सुधाव्याख्या

- तेति । तन्तून् वयति । ‘वेञ् तन्तुसन्ताने’ (भ्वा० उ० अ०) । ‘ह्रावामश्च',(३.२.२) इत्यण् । ‘तन्त्रवायः इति पाठे तन्तवो वितन्यन्ते यस्मिंस्तत्तन्त्रम् । तद्वयति । ‘तन्त्रवापः' इति पाठान्तरम् । तत्र 'डुवप्’ (भ्वा० उ० अ०) । अण् (३.२.१) ॥