कुलालः

सुधाव्याख्या

- कुं भूमिं लालयति । ‘लड विलासे' (भ्वा० प० से०) । अण् (३.२.१) । डलयोरैक्यम् । कुलमालाति वा । कः (वा० ३.२.५) । कुलमलति वा । अण् (३.२.१) । कुलमालुनाति वा । डः (वा० ३.२.१०१) । ‘घूके कुलालः कुक्कुभे कुम्भकारेऽञ्जनान्तरे' ॥