रथकारः

सुधाव्याख्या

- रेति । माहिष्याद्वैश्याक्षत्त्रियसुतात् करण्यां शूद्रायां वैश्यादुत्पन्नायाम् । रथं करोति । ‘कृञ्’ (त० उ० अ०) । ‘कर्मण्यण्’ (३.२.१) । ‘रथकारस्तु माहिष्यात्करणी च तक्षणि' (इति मेदिनी) ॥