निभः

सुधाव्याख्या

- स्युरिति । अमी निभादय उत्तरपदस्था एव सदृशवचना वाच्यलिङ्गाः स्युः । यथा ‘पितृनिभः पुत्रः' ‘मातृनिभा कन्या' ‘देवनिभमपत्यम्’ इति । नियतं भाति । ‘आतश्चोपसर्गे' (३.१.१३६) इति कः । ‘निभस्तु कथितो व्याजे पुंलिङ्गः सदृशे त्रिषु' (इति मेदिनी) ॥