चोरः

सुधाव्याख्या

- चाविति । चोरणम् । 'चुर स्तेये' (चु० प० से०) । ‘अ प्रत्ययात्' (३.३.१०२) । संज्ञापूर्वकत्वान्न गुणः । चुरा शीलमस्य । ‘छत्त्रादिभ्यो णः' (४.४.६२) । ‘चौरः पाटच्चरेऽपि स्याच्चौरपुष्पौषधावपि' इति विश्वः (मेदिनी) । पचाद्यचि ‘चौरः’ अपि ॥