कुक्कुरः

सुधाव्याख्या

- कोकते । ‘कुक आदाने' (भ्वा० आ० से०) । क्विप् (३.२.१७८) । कुरति । ‘कुर शब्दे' (तु० प० से०) । कः (३.१.१३५) । कुक् चासौ कुरश्च । ‘कुक्कुरः सारमेये ना ग्रन्थिपर्णे नपुंसकम्' इति विश्वः (मेदिनी ) ॥


प्रक्रिया

धातुः -


कुकँ आदाने
कुक् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुक् + क्विप् - अन्येभ्योऽपि दृश्यते 3.2.178
कुक् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुरँ शब्दे
कुर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुर् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
कुर् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कुक् + सु + कुर + सु - विशेषणं विशेष्येण बहुलम्‌ 2.1.57
कुक्कुर - सुपो धातुप्रातिपदिकयोः 2.4.71
कुक्कुर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कुक्कुर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुक्कुर + रु - ससजुषो रुः 8.2.66
कुक्कुर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुक्कुरः - खरवसानयोर्विसर्जनीयः 8.3.15