परजातः

सुधाव्याख्या

- परस्माज्जातः । परपोषित्वात् । ‘पराजितः' इति पाठे परैराजीयते स्म । ‘त्रि अभिभवे' (भ्वा० प० अ०) । क्तः (३.२.१०२) । यद्वा परेषामाजः क्षेपणं जातोऽस्य । तारकादिः (५.२.३६) ॥