कुशीलवाः

सुधाव्याख्या

- कुत्सितं शीलमस्त्येषाम् । ‘कुगति-' (२.२.१८) इति समासः । ‘अन्यत्रापि दृश्यते' (वा० ५.२.१०९) इति वः । कुशीलं वान्ति वा । ‘वा गत्यादौ' (अ० प० अ०) । कः (३.२.३) ॥


प्रक्रिया

धातुः -


कु + शील - कुगतिप्रादयः 2.2.18
वा गत्यादौ
कुशील + वा + क - आतोऽनुपसर्गे कः 3.2.3
कुशील + वा + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कुशील + व् + अ - आतो लोप इटि च 6.4.64
कुशीलवाः