भरताः

सुधाव्याख्या

- भरतस्य मुनेः शिष्याः । अण् (४.३.१२०) । संज्ञापूर्वकत्वान्न वृद्धिः । यद्वा बिभर्ति स्वाङ्गम् । ‘डु भृञ्’ (जु० उ० अ०) । ‘भृमृदृशि-' (उ० ३.१११) इत्यतच् ।—विदाद्यञो (४.१.१०४) वा । ‘यञञोश्च' (२.४.६४) इति लुकि भरतः —इति मुकुटः । तन्न । अबहुवचने वृद्धिप्रसङ्गात् । पूर्वव्या- ख्याविरोधाच्च ॥


प्रक्रिया

धातुः -


भरत + ङस् + अण् - तस्येदम् 4.3.120
भरत + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
भरत + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
भरत् + अ - यस्येति च 6.4.148
भरताः