क्षारमृत्तिका

सुधाव्याख्या

क्षारयति । ’क्षर सञ्चलने ' (भ्वा० प० से०) । णिच् (३.१.२६) । पचाद्यच् (३.१.१३४) । क्षारा चासौ मृत्तिका च ॥


प्रक्रिया

धातुः - क्षरँ सञ्चलने


क्षर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षर् + णिच् - हेतुमति च 3.1.26
क्षर् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
क्षार् + इ - अत उपधायाः 7.2.116
क्षार् + इ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
क्षार् + अच् - णेरनिटि 6.4.51
क्षार् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
क्षार + सु + मृत्तिका + सु - विशेषणं विशेष्येण बहुलम्‌ 2.1.57
क्षार + मृत्तिका - सुपो धातुप्रातिपदिकयोः 2.4.71
क्षारमृत्तिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
क्षारमृत्तिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षारमृत्तिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68