ऊषः

सुधाव्याख्या

स्यादिति । ऊषति । ‘ऊष रुजायाम्' (भ्वा० प० से०) । 'इगुपध-' (३.१.१३५) इति कः । ('ऊषः क्षारमृदि प्रोक्तः प्रभातेऽपि पुमानयम् । तत्संध्यायां च रन्ध्रे च चन्दनाद्रौ श्रवो विले' इति मेदिनी ।