उर्वरा

सुधाव्याख्या

उर्वरेति । ऋच्छति । 'ऋ गतौ' (भ्वा० प० अ०) । पचाद्यच् (३.१.१३४) । यद्वा ईर्यते । 'ऋ गतौ” (क्र्या० प० से०) । 'ॠदोरप्' (३.३.५७) । उरूणामरा । यद्वा-उर्व्यते । उर्वी हिंसायाम्' (भ्वा० प० से०) । ‘खनो घच्’ (३.३.१२५) इति घः । ‘उपधायां च' (८.२.७८) इति दीर्घस्तु संज्ञापूर्वकत्वान्न । उर्वं राति । कः (३.२.३) । यद्वा सम्पदादि क्विप् (वा० ३.३.१०८) । राल्लोपः (६.४.२१) । उर् चासौ वरा च । उर्षु वरा वा । ऊर्वरा तु भूमात्रे सर्वसस्याढ्यभुव्यपि इति हैम: ॥ सर्वाणि च तानि सस्यानि च । तैराढ्या मृत् । एकम् सस्याढ्यभूमेः ।