डुण्डुभः

सुधाव्याख्या

'डुण्डु’ इत्यनुकरणशब्दः । तं भणति, तेन भाति, इति वा । अन्यभ्योऽपि-' (वा० ३.२.१०२) इति ङः । लण्ड्यते । ओ लडि उत्क्षेपणे (चु० प० से०) । घञ् (३.३.१८) । डलयोरेकत्वम् । उभति । ‘उभ पूरणे’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति क: । डुण्डुश्चासावुभश्च । पृषोदरादिः (६.३.१०९) । यत्तु 'डुडि तुडि निमज्जने’ । घञ् (३.३.१८) । डुण्डेन भाति । आतोऽनुप-' (३.२.३) इति कः । ‘कर्तृकरणे कृता-' (२.१.३२) इति समासः । पृषोदरादिः (६.३.१०९) । तवर्गतृतीयादिरपि । अत एव ‘दो डो दो लश्च इति नरसिंह: इति मुकुटः। ‘दण्ड भाषणे' । 'दण्डुभः’ इत्येके-इति स्वामी । तन्न । उक्तधातूनामर्दशनात् । ‘आतोऽनुप-' (३.२.३) इति कस्य कर्मण्युपपदे विधानात् । परत्वादुपपदसमासस्य (२.२.१९ ) न्याय्यत्वाच्च ।