अलगर्दः

सुधाव्याख्या

अलेति । लगति 'लगे सङ्ग’ (भ्वा० प० से०) । क्विप् । (३.२.१७८) । अर्दयति । अच् (३.१.१३४) । लक् चासावर्दश्च । लग्नः सन् पीडक इत्यर्थः । निर्विषत्वात्तद्भिन्नोऽलगर्दः । यद्वा-अलति । 'अल गत्यादौ’ (भ्वा० प० से०) । गर्दति । ‘गर्द शब्दे’ (भ्वा० प० से०) । अच् (३.१.१३४) । अलश्चासौ गर्दश्च । ‘अलगर्ध:’ इति तु मुकुटः । अलं गृध्यति । ‘गृधु अभिकाङ्कायाम्' (दि० प० से०) । पृषोदरादिः (६.३.१०९) । पचाद्यच् (३.१.१३४)


प्रक्रिया

धातुः -लगेँ सङ्गे , अर्दँ हिंसायाम्


लगेँ सङ्गे
लग् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लग् + क्विप् - अन्येभ्योऽपि दृश्यते 3.2.178
लग् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लग् - वेरपृक्तस्य 6.1.67
लक् - वाऽवसाने 8.4.56
अर्दँ हिंसायाम्
अर्द् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अर्द् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
अर्द् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
लक् + सु + अर्द + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
लक् + अर्द - सुपो धातुप्रातिपदिकयोः 2.4.71
लगर्द - झलां जशोऽन्ते 8.2.39
नञ् + लगर्द + सु - नञ्‌ 2.2.6
नञ् + लगर्द - सुपो धातुप्रातिपदिकयोः 2.4.71
न + लगर्द - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अलगर्द - नलोपो नञः 6.3.73
अलगर्द + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अलगर्द + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अलगर्द + रु - ससजुषो रुः 8.2.66
अलगर्द + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अलगर्दः - खरवसानयोर्विसर्जनीयः 8.3.15