वाहसः

सुधाव्याख्या

वहति । वहियुभ्यां णित् (उ० ३.११९) इत्यसच् । णित्वाद्वृद्धिः । वाहं गतिं स्यति इति वा । ‘आतोऽनुप-' (३.२.३) इति कः । ‘वाहसोऽजगरे वारिनिर्याणसुनिषण्णयोः’ इति हैमः