अजगरः

सुधाव्याख्या

अजेति । गिरति। 'गॄ निगरणे’ (तु० प० से०) । पचाद्यच् (३.१.१३४) । अजस्य गरः। अजो नित्यो गरो विषं यस्येति वा । यत्तु-अजं छागमपि गिरति । पचाद्यच्-इति मुकुटः । तन्न । कर्मण्यण: प्रसङ्गात् । ‘अजगरः स्मृतः सर्पभेदेऽपि कवचे बुधैः ।