तिलित्सः

सुधाव्याख्या

तेलति । तिल गतौ (प० से०) भ्वादिः । तिलति । तिल स्नेहने' (प० से०) तुदादिः । तिल इदुक् च' इति स इदुगागमश्च इति मुकुटः । तन्न । उज्ज्वलदत्तादिषूक्तसूत्राभावात् तेलनम् । तिल् । सम्पदादिक्विप् । (वा० ३.३.१०८) तिलमेति । 'इण् गतौ' (अ० प० अ०) । क्विप् (३.२.१७८) । तुक् (६.१.७१ ) । तिलित् । तिलितं स्यति । 'षोऽन्तकर्मणि' (दि० प० अ०) । कः (३.२.३) । यद्वा तेलनम् । तिलिः । कृष्यादित्वात् (वा० ३.३.१०८) इक् । तिलिं गतिं त्सरति । ‘त्सर छद्मगतौ (भ्वा० प० से०) । अन्येभ्योऽपि' (वा० ३.२.१०२) इति ड: । 'गोनसी मण्डली वोडः’ इति तु विक्रमादित्यः ।


प्रक्रिया

धातुः - तिलँ गतौ , इण् गतौ , षो अन्तकर्मणि


तिलँ गतौ
तिल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तिल् + क्विप् - संपदादिभ्यः क्विप् (3.3.108) । वार्तिकम् ।
तिल् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तिल् - वेरपृक्तस्य 6.1.67
इण् गतौ
- हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
इ + क्विप् - अन्येभ्योऽपि दृश्यते 3.2.178
इ + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
- वेरपृक्तस्य 6.1.67
इ + तुक् - ह्रस्वस्य पिति कृति तुक् 6.1.71
इत् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तिल् + सु + इत् + सु - उपपदमतिङ् 2.2.19
तिल् + इत् - सुपो धातुप्रातिपदिकयोः 2.4.71
षो अन्तकर्मणि
सो - धात्वादेः षः सः 6.1.64
तिलित् + अम् + सो + क - उपपदमतिङ् 2.2.19
तिलित् + सो + क - सुपो धातुप्रातिपदिकयोः 2.4.71
तिलित् + सो + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
तिलित् + सा + अ - आदेच उपदेशेऽशिति 6.1.45
तिलित् + स् + अ - आतो लोप इटि च 6.4.64
तिलित्स + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तिलित्स + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तिलित्स + रु - ससजुषो रुः 8.2.66
तिलित्स + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तिलित्सः - खरवसानयोर्विसर्जनीयः 8.3.15