स्मितम्

सुधाव्याख्या

स हासो मनागल्पः । ‘स्मिङ् ईषद्धसने’ (भ्वा० आ० अ०) । भावे क्तः (३.३.११४) ‘ईषद्विकसितैर्दन्तैः कटाक्षैः सौष्ठवान्वितै: । अलक्षितद्विजद्वारमुत्तमानां स्मितं भवेत् ।