आच्छुरितकम्

सुधाव्याख्या

स्यादिति । उत्प्रासनम् । असु क्षेपणे' (दि० प० से०) । ‘अस गतिदीप्त्यादानेषु’ (भ्वा० उ० से०) । वा घञ् (३.३.१८) । उत्प्रासेनाधिक्येन क्षेपणेन वा सहितः सोत्प्रासः । आच्छुरणं परच्छेदनम् । ‘छुर छेदने’ (तु० प० से०) । भावे क्तः (३.३.११४) । स्वार्थे कन् (५.३.७७) । भावे 'स्यादाच्छुरितकं हासनखराघातभेदयो:’