चिन्ता

सुधाव्याख्या

स्यादिति । चिन्तनम् । ‘चिति स्मृत्याम् (चु० प० से०) । चिन्तिपूजि-'(३.३.१०५) इत्यङ् । यत्तु-अप्रत्यये कार्ये | चिन्तिपूजि-' इत्यङ् विधानं गुणाभावार्थम् । तत्सामर्थ्याण्णिलोपाभावोऽपि, इति चिन्तया इत्यपि–इति मुकुटेनोक्तम् । तन्न । भिदा’ इत्यादौ ङित्वस्य चरितार्थत्वेन 'व्यवधा’ इत्यत्रातोलोपार्थत्वेनोत्तरार्थत्वेन सामर्थ्यविरहात् ॥