तर्षः

सुधाव्याख्या

स इति । स तर्षो महांश्चेत् 'लल ईप्सायाम्' (*) औणादिकोऽसण् । यद्वा ‘लस कान्तौ’ (*) भृशं लसनम्, इत्यर्थे यङन्तादः (३.३.१०२) । टाप् (४.१.१०२) । घञि तु लालसः । स्त्रीनिर्देश आबन्ततासूचनार्थः । ‘लालसौत्सुक्यतृष्णातिरेकयाच्ञासु च द्वयोः इति विश्वमेदिन्यौ ।