भट्टारकः

सुधाव्याख्या

राजेति । भटति । ‘भट परिभाषणे’ (भ्वा० प० से०) । क्विप् (३.२.१७८) । भट् चासौ तारकश्च । पृषोदरादित्वात् (६.३.१०९) टुत्वनिषेधो न । यद्वा टलति । ‘टल विप्लवे (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । रलयोरेकत्वस्मरणम् । भट् चासौ टारकश्च । भट्टं स्वामित्वमृच्छति वा । 'ऋ गतौ’ (भ्वा० प० से०) । ‘कर्मण्यण्' (३.२.१) । ततः स्वार्थे कन् (५.३.७७) । 'भट्टारको नृपे नाट्यवाचा, देवे तपो धने-' इति मेदिनी ॥