कुमार

सुधाव्याख्या

कुमारयति । कुमार क्रीडायाम्’ (चु० उ० से०) । अच् (३.१.१३४) ‘कुमारोऽश्वानुचारके । युवराजे शिशौ स्कन्दे शुके वरुणपादपे । कुमारं जात्यकनके कुमारीत्यपराजिता । नदीभिद्रामतरुणी कन्यका नवमाल्युमा ॥ जम्बुद्वीपविभागश्च' इति हैम: ॥