आवुत्तः

सुधाव्याख्या

भगिनीति । आपनमाप् । सम्पदादि क्विप् (३.३.१८४) । आपमुत्तनोति । अन्येभ्योऽपि' (वा० ३.२.१०१) इति ड: । आवुत्त: । (१) भगिन्याः पतिः । एकम् भगिनीपतेः ।


प्रक्रिया

धातुः - आपॢँ व्याप्तौ , तनुँ विस्तारे


आपॢँ व्याप्तौ
आप् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आप् + क्विप् - संपदादिभ्यः क्विप् (3.3.108) । वार्तिकम् ।
आप् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आप् - वेरपृक्तस्य 6.1.67
तनुँ विस्तारे
तन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आप् + उत् + तन् + ड - अन्येभ्योऽपि दृश्यते (3.2.101) । वार्तिकम् ।, उपपदमतिङ् 2.2.19
आप् + उत् + तन् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
त् + अ - टेः 6.4.143
आप् + उत् + त् + अ - डित्वसामर्थ्यादभस्यापि टेर्लोपः।
आवुत्त + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आवुत्त + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आवुत्त + रु - ससजुषो रुः 8.2.66
आवुत्त + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आवुत्तः - खरवसानयोर्विसर्जनीयः 8.3.15