वाशितम्

सुधाव्याख्या

तिरश्चामिति । तिरोऽञ्चन्ति ते तिर्यञ्चः । तेषां यदृतम् तद्वाशितम् । 'वाशु शब्दे’ (दि० आ० से०) तालव्यान्तः । भावे क्तः (३.३.११४) । ‘वासिता करिणीनार्योर्वाशितं भाविते रुते' । ('वासिता करिणीनार्योवासितं सुरभीकृते । ज्ञानमात्रे खगारावे वासितं वस्त्रवेष्टिते') इति विश्वकोषादिदर्शनेन तु दन्त्यवानपि ॥