कलकलः

सुधाव्याख्या

‘कल शब्दे’ (भ्वा० आ० से०) । घञ् (३.३.१८) । संज्ञापूर्वकत्वाद्वृद्ध्यभावः । कलादपि कलः । (यत्तु) कोलान्सूकरानाहते त्रासयति – इति स्वाम्याह । तन्न । ‘आङो यमहनः' (१.३.२८) इत्यकर्मकात्स्वाङ्गकर्मकाच्च हन्तेरात्मनेपदविधानात् । यदपि—आभीक्ष्ण्ये द्विर्भावः । (८.१.४) इति । तदपि न तस्य तिङव्ययकृन्मात्रविषयत्वात् । 'कलकल उक्तः कोलाहले तथा सर्जनिर्यासे ।